MID-TERM EXAMINATION (2022-23) CLASS: 8 SUBJECT : SANSKRIT (L-2)

No. of pages - 8.         (E)

MID-TERM EXAMINATION (2022-23)
CLASS: VIII
SUBJECT : SANSKRIT (L-2)

Time Allowed : 2.30 hours
समय : सार्धहोराद्वयम्

Maximum Marks : 60 
अधिकतम अंक - 60

सामान्य-निर्देशाः

1. प्रश्नपत्रे चत्वारः खण्डाः सन्ति।
खण्ड 'क'          अपठित-अवबोधनम्.      8 अंका:
खण्ड 'ख'          रचनात्मक कार्यम्.          12 अंका:
खण्ड 'ग'           अनुप्रयुक्त-व्याकरणम्.     18 अंका:
खण्ड 'घ'            पठित-अवबोधनम्.        22 अंका:

2. सर्वे प्रश्नाः अनिवार्याः 
3. उत्तराणि संस्कृतेनैव लेखनीयानि ।
4. प्रश्नानाम् उत्तराणि खण्डानुसारं क्रमेणैव लेखनीयानि । प्रश्नसंख्या अवश्यमेव लेखनीया ।

खण्ड-क
अपठितांश अवबोधनम् (8 अंकाः )

प्र. 1 - अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत (ग्रीष्मऋतुः सुखदस्य वसन्तसमयस्य पश्चात् आगच्छति। ग्रीष्मसमये सूर्यस्य तापः प्रखरः भवति। मानवाः पशु-पक्षिणः वृक्षाः, पादपाः च अपि प्रखर तापेन व्याकुलाः भवन्ति । केचित् (जना: विहाराय पर्वतस्थलेषु गच्छन्ति केचित् गृहे वातानुकूलितेषु कक्षेषु तिष्ठन्ति । नद्यः सरोवराः च शुष्यन्ति । (सर्वत्र 'जलस्य अभावः दृश्यते। परं यदि ग्रीष्म-समयस्य प्रचण्डः तापः न स्यात्, तर्हि मेघाः कथं भविष्यन्ति । मेघान् विना कुतः वृष्टिः? (ग्रीष्मसमयस्य प्रभावात् एव वर्षा ऋतुः आगच्छति । ग्रीष्मसमये गुलमोहर - वृक्षेषु रक्तानि पुष्पाणि अतीव शोभन्ते । मल्लिका - मालती - पादपेषु सुगन्धमयानि श्वेतानि पुष्पाणि विकसन्ति ।

(अ) एकपदेन उत्तरत - (केवलं प्रश्नत्रयम्) (1x3=3)

(i) कः सुखदस्य वसन्तसमयस्य पश्चात् आगच्छति?
(ii) ग्रीष्मसमये कस्य तापः प्रखरः अस्ति ?
(iii) जना: किमर्थं पर्वतस्थलेषु गच्छन्ति?
(iv) ग्रीष्मसमये कस्य अभावः दृश्यते?

(ब) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकम्). (2x1=2)
(i) ग्रीष्मसमये केषु वृक्षेषु रक्तानि पुष्पाणि शोभन्ते ? 
(ii) कस्य समयस्य प्रभावात् एव वर्षा ऋतुः आगच्छति?

(स) यथानिर्देशम् उत्तरत (केवलं प्रश्नद्वयम्) (1x2=2)

(i) ग्रीष्मऋतुः सुखदस्य वसन्तसमयस्य पश्चात् आगच्छति।" इति वाक्ये कर्तृपदं किम् ?

(क) सुखदस्य
(ख) आगच्छति
(ग) ग्रीष्मऋतुः

(ii) "नद्यः सरोवराः च शुष्यन्ति।" इति वाक्ये क्रियापदम् किम्?

(क) नद्यः
(ख) शुष्यन्ति
(ग) सरोवराः

(iii) "ग्रीष्मसमयस्य प्रभावात् एव वर्षा ऋतुः आगच्छति।" वाक्ये अव्ययपदं किम्?

(क) प्रभावात्
(ख) एव
(ग) आगच्छति

(द) अस्य अनुच्छेदस्य कृते उपयुक्त शीर्षकं संस्कृतेन लिखत ।

खण्ड - ख
रचनात्मकं कार्यम् (12 अंकाः ) (2x4-8)

प्र. 2 चित्रं दृष्ट्वा मञ्जूषातः पदानि चित्वा चत्वारि वाक्यानि लिखत
        B                  मञ्जूषा
वृक्षारोपणम्, महिला, छात्राः, पर्वता, पादपान्, आकाशे, मेघाः, सिञ्चति दृश्यन्ते, रोपयन्ति, नव, सन्ति, पादपाः
अथवा
'उद्यानम्" इति विषयम् अधिकृत्य चत्वारि वाक्यानि लिखत।

प्र. 3 पदानां मेलनं कृत्वा वाक्य रचनां कुरुत (1x4 = 4 )
(i)      रमेशः           वने                     क्रीडसि
(ii)     अहम्           कन्दुकेन              नृत्यन्ति
(iii)    त्वम्            पुस्तकम्               गच्छामि
(iv)    मयूराः          आपणम्               पठति

खण्ड-ग

अनुप्रयुक्त-व्याकरणम् (18 अंकाः )

प्र.4 अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत - (केवलं प्रश्नत्रयम्) (1

(i) दिनेश: पुस्तकालयम् गच्छति । 

(क) पुस्तका+लयम्
(ख) पुस्तक+आलयम्
(ग) पुस्तकम् +आलयम्

(ii) महेशः फलं खादति ।

(क) महा+ईश:
(ख) महे:+श:
(ग) मही+शः

(iii) प्रति+एकम् अयनस्य अवधिः षण्मासाः ।

(क) प्रतिएकम्
(ख) प्रत्यैकम्
(ग) प्रत्येकम्

(iv) ते प्रातः देव + आलयं गच्छन्ति ।

(क) देवलयम्
(ख) देवालयम्
(ग) देवोलयम्

प्र.5 - उदाहरणं दृष्ट्वा वर्णविच्छेदं लिखत (केवलं प्रश्नत्रयम्) (1x3=3)
यथा रमेशः = र् +अ+म+ ए + श् + अ:

(i) बालिका.             ________________
(ii) धावक:               ________________
(iii) अध्यापकः          ________________
(iv) गणेशोत्सव:        ________________

प्र.6 उदाहरणं दृष्ट्वा वर्णसंयोजनेन पदं लिखत (केवलं प्रश्नत्रयम्) (1x3=3)
यथा - प्+र्+अ+श्+न्+अः = प्रश्नः

(i) ब्+आ+ल्+अ+क्+आ:        ________________
(ii) न्+अ+द्+ई +न्+आ+म्      ________________
(iii) स्+ए+व्+अ+त्+ए            ________________
(iv) प्+आ+ष्+आ+ण्+अः       ________________


प्र. 7 अङ्कानां कृते मञ्जूषातः चित्वा उचितं पदं पूरयत - (केवलं प्रश्नत्रयम्) (1x3=3)
                मञ्जूषा 
द्वाविंशतिः, एकचत्वारिंशत्, त्रिंशत्, एकत्रिंशत्

(i) 31          ________________
(ii) 30         ________________
(iii) 22        ________________
(iv) 41        ________________

प्र. 8 (क) उचितशब्दरूपाणि चित्वा रिक्तस्थानानि पूरयत (केवलं प्रश्नत्रयम्) (1x3=3)

(i) अहं ________ वस्त्राणि ददामि। (निर्धनाय / निर्धनम्)
(ii) व्याधः  ________ व्याघ्रं बहि: निरसारयत्। (जालम्/जालात्)
(iii) चञ्चल:  ________ उपगम्य अपृच्छत्। (वृक्षम् / वृक्षस्य)
(iv) अहं परिवारस्य चक्षुषा ________  पश्यामि । (संसारस्य/संसार)

(ख) उचितधातुरूपाणि चित्वा रिक्तस्थानानि पूरयत - (केवलं प्रश्नत्रयम्) (1x3= 3)

(i) ग्रामं परितः वृक्षाः  ________ । (अस्ति /सन्ति) 
(ii) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि  ________  (भवन्ति/भवति)
(iii) अहं आहवानं  ________  (करोति / करोमि) 
(iv) मानवा: वृक्षाणां छायायां  ________ । (विरमति/विरमन्ति)

खण्ड-घ
पठित-अवबोधनम् (22 अंका: )

प्र. 9 अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत - कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म । सः कदाचित् इतस्ततः परिभ्रमन् क्षुधार्त्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत् - "नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि" इति ।
(अ) एकपदेन उत्तरत - (केवलं प्रश्नमेकम्) (1x1 = 1)
(i) वने कः प्रतिवसति स्म ?
(ii) किम् नाम सिंहः प्रतिवसति स्म ?

(ब) पूर्णवाक्येन उत्तरत - (केवलं प्रश्नमेकम्) (2x1=2)

(i) खरनखरः नाम सिंहः कुत्र प्रतिवसति स्म ?
(ii) सिंह: महतीं गुहां दृष्ट्वा किम् अचिन्तयत् ?

(स) यथानिर्देशम् उत्तरत - (प्रश्नद्वयम्) (1x2=2)

(1) " महतीं गुहाम् " अनयोः पदयोः किं विशेषण-पदम् अस्ति?

(क) महतीम्
(ख) गुहाम्
(ग) न किमपि

(ii) "वने खरनखरः प्रतिवसति स्म।” इति वाक्ये कर्त्तृपदं किम् अस्ति ?

(क) वने
(ख) खरनखरः
(ग) प्रतिवसति

(iii) "गुहायां रात्रौ कोऽपि जीवः आगच्छति।" अत्र किं क्रियापदम् ?

(क) गुहायां
(ख) रात्रौ
(ग) आगच्छति

प्र.10 अधोलिखितं पद्याशं पठित्वा प्रश्नान् उत्तरत

चल चल पुरतो निधेहि चरणम्।
सदैव पुरतो निधेहि चरणम् ।।
गिरिशिखरे ननु निजनिकेतनम्।
विनैव यान नगारोहणम्।।
बलं स्वकीयं भवति साधनम् ।

(अ) एकपदेन उत्तरत (केवलं प्रश्नमेकम्) (1xl= 1)
(i) किं निधेहि ?
(ii) चरणं कुत्र निधेहि ?

(ब) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकम्) - (2x1=2)

(i) कदा पुरतः चरणं निधेहि?
(ii) नगारोहणं कथं करणीयम्?

(स) यथानिर्देशम् उत्तरत (केवलं प्रश्नद्वयम्) (1x2=2) 

(i) 'परकीयम्' पदस्य किं विलोमपदं पद्यांशे प्रयुक्तम् ?

(क) स्वकीयम्
(ख) नगारोहणम्
(ग) साधनम्

(ii) 'पर्वतशिखरे' पदस्य किं पर्यायपदं पद्यांशे प्रयुक्तम् ?

(क) कैलाशशिखरे
(ख) गिरिशिखरे
(ग) हिमालयशिखरे

(iii) 'सदा पुरतः एव चरणं निधेहि" इति अव्ययपदं किम् ?

(क) एव
(ख) चरणं
(ग) निधेहि

प्र. 11 अधोलिखितं संवादं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत
अध्यापिका→   सुप्रभातम्
छात्राः   →       सुप्रभातम्। सुप्रभातम्
अध्यापिका →   भवतु । अद्य किं पठनीयम्?
छात्रा:    →       वयं सर्वे स्वदेशस्य राज्यानां विषये 
                       ज्ञातुमिच्छामः ।
अध्यापिका →   शोभनम् । वदत। अस्माकं देशे कति 
                       राज्यानि सन्ति?
सायरस  →        चतुर्विशतिः महोदये!
सिल्वी   →          न हि न हि महाभागे ! पञ्चविंशतिः 
                         राज्यानि सन्ति ।
अध्यापिका→       अन्यः कोऽपि...............?
स्वरा →              (मध्ये एव) महोदये! ये भगिनी कथयति    
                         यदस्माकं देशे नवविंशतिः राज्यानि सन्ति। 
                         एतदतिरिच्य सप्त केन्द्रशासित प्रदेशाः 
                          अपि सन्ति ।

(अ) एकपदेन उत्तरत (केवलं प्रश्नमेकम्) (1x1=l)

(i) छात्राः कस्य राज्यानां विषये ज्ञातुम् इच्छन्ति?
(ii) संवादानुसारं कति केन्द्रशासितप्रदेशाः सन्ति?




(ब) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकम् ) (2x1=2)

(i) 'अस्माकं देशे कति राज्यानि सन्ति?" इति वाक्यं का वदति?
(ii) सायरा किं वदति?

(स) निर्देशानुसारम् उत्तरत (1x2=2) (केवलं प्रश्नद्वयम्) 

(i) 'उत्तमम्' पदस्य किं पर्यायपदं नाट्यांशे प्रयुक्तम् अस्ति?
(क) शोभनम्
(ख) सुप्रभातम्
(ग) न किमपि

(ii) 'स्वदेशस्य' अत्र का विभक्तिः अस्ति ?
(क) पञ्चमी
(ख) षष्ठी
(ग) सप्तमी 

(iii) "एतदतिरिच्च सप्त केन्द्रशासित प्रदेशाः अपि सन्ति" इति अव्ययपदं किम् ?
(क) सप्त
(ख) केन्द्रशासित प्रदेशाः
(ग) अपि

प्र. 12 मञ्जूषातः समुचितानि पदानि चित्वा अधोलिखित- श्लोकस्य अन्वयं पूरयत- (1x4=4) 
चल चल पुरतो निधेहि चरणम्। 
सदैव पुरतो निधेहि चरणम्। 

मञ्जूषा
निधेहि, चल, सदा, एवं

अन्वयः
चल (i) ........। पुरतः चरणम् (ii) ............. । (iii) ............ (iv) ............... चरणं निधेहि ।

प्र.13 विलोम पदानि योजयत (केवलं प्रश्नत्रयम्) (1x3=3)
 (i) पुरतः                  (क) आगमनम्
(ii) स्वकीयम्             (ख) पृष्ठतः
(iii) भीति:                (ग) परकीयम्
(iv) गमनम्               (घ) साहसः


Comments

Popular posts from this blog

CBSE Board Exam 2023 Class 10 ENGLISH (Language and Literature)

Ganita Prakash Class 8 Chapter 7 Solutions Proportional Reasoning 1

Ganita Prakash | Class 8 | Chapter 5 Number Play | Solutions