COMMON ANNUAL EXAMINATION (TERM-2) 2021-22 (M) CLASS : IX SUBJECT : SANSKRIT
COMMON ANNUAL EXAMINATION (TERM-2) 2021-22 (M)
CLASS : IX
SUBJECT : SANSKRIT
Time Allowed: 2 hours (समय: होराद्वयम्)
Maximum Marks : 40 (अधिकतम अंक 40)
सामान्यनिर्देशाः
★ कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 8 पृष्ठानि मुद्रितानि सन्ति।
★ कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत् अस्मिन् प्रश्नपत्रे 9 प्रश्नाः सन्ति ।
★ उत्तरलेखनात् पूर्व प्रश्नस्य क्रमाङ्क: अवश्य लेखनीयः ।
★ प्रश्नसंख्या प्रश्नपत्रानुसारम् एव लेखनीया। • सर्वेषां प्रश्नानां संस्कृतेन उत्तराणि लेखनीयानि ।
★ प्रश्नानां निर्देशाः ध्यानेन पठनीयाः ।
***********************************
वर्णनात्मकाः प्रश्ना: ( 40 अङ्का: )
अपठितावबोधनम्
01. अधोलिखित गद्यांश पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। 10
पुरा अस्माकं देशे नारीणाम् अत्यादरः आसीत् । नार्यः पुरुषाणाम् इव समानाधिकारसम्पन्नाः आसन । विद्यायाः अध्ययने अध्यापने च अगगण्यः आसन्। नैका: विदुष्य: वेदमन्त्रद्रष्ट्यः अभवन। उपनिषद्युगे गार्गी-मैत्रेयी- अपाला-घोषाप्रभृतीनां नारीणाम् उल्लेखः श्रूयते। शङराचार्यमण्डनमिश्रयोः शास्त्रार्थे मध्यस्थतां कुर्वत्याः भारतीदेव्याः सर्वशास्त्रविषयकं पाण्डित्यम् नितरां दृश्यते, परन्तु मध्यकाले नारीणां सुरक्षायाः अभावात् प्राच्यविद्यामन्दिराणां विलुप्तत्वाच्च सैषा पावनी परिपाटी समूलमुच्छिन्ना। स्वतन्त्रे भारते सर्वकारस्य विविधैः समुद्योगैः इदानीं नारीणां महती समुन्नतिः दृश्यते। नार्य: प्रत्येकस्मिन् क्षेत्रे स्वीयां सार्थकतां प्रदर्श्य भारतं आविश्वपटलं भासन्ते ।
(अ) एकपदेन लिखत - (कवलं प्रश्नद्वयम् ) 1x2=2
(i) पुरा अस्माकं देशे कासाम् अत्यादरः आसीत?
(i) नार्य: केषाम् इव समानाधिकारसम्पन्नाः आसन्?
(iii) स्वतन्त्रे भारते कस्य विविधैः समुद्योगैः इदानीं नारीणां महती समुन्नतिः दृश्यते?
(आ) पूर्णवाक्येन लिखत- (केवलं प्रश्नद्वयम्)
2x2 = 4
(i) मध्यकाले नारीणां कस्याः अभावात् सैषा पावनी परिपाटी समूलमुच्छिन्ना?
(ii) उपनिषद्युगे कासाम् उल्लेखः श्रूयते?
(iii) शङराचार्यमण्डनमिश्रयोः शास्त्रार्थे मध्यस्थतां कुर्वत्याः कस्याः पाण्डित्यम् नितरां दृश्यते?
(इ) अस्य अनुच्छेदस्य कृते उचितं शीर्षकं संस्कृतेन लिखत- 1
(ई) यथानिर्देशम् उत्तरत- (केवलं प्रश्नत्रयम्)
1x3 = 3
(i) 'महिलानां' पदस्य कृते किं समानार्थकं पदं गद्यांशे प्रयुक्तम् ?
(ii) 'भासन्ते' क्रियायाः कर्तृपदं गद्यांशात् चित्वा लिखत।
(iii) 'परषां' इत्यस्य विलोमपदं गद्यांशात् चित्वा लिखत।
(iv) 'विविधैः समुद्योगैः' इत्यनयोः पदयोः विशेषणपदं किम्?
रचनात्मकं कार्यम् ( 15 अङ्काः)
02. अधोलिखितं पत्र मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत - ½x10 = 5
भवती वन्दना। गतवर्षे भवती गणतन्त्रदिवसस्य शोभायात्रायां भागं गृहीतवती, स्वानुभवं वर्णयन्ती भवती मध्यप्रदेशे स्थितां स्वीयां सखीं विनीतां प्रति एक पत्र लिखति। मञ्जूषात: पदानि विचित्य रिक्तस्थानानि पूरयतु ।
प्रिय सखि (i) _______ दिनांक: _______
सप्रेम नमस्ते
देहलीत:
अत्र कुशलं तत्रास्तु भवती इमं समाचार श्रुत्वा यत् अहं गणतन्त्रदिवसस्य (ii) _______ भविष्यति (iii) _______ भाग गृहीतवती । (iv) _______ समारोहे अस्माकं विद्यालयस्य एकः वर्गः अपि आसीत्। तस्य वर्गस्य अहं नेत्री आसम्। एषा (v) _______ शोभायात्रा भारतद्वारत: (India Gate) आरभ्य रक्तदुर्गपर्यन्तम् (Red Fort) अगच्छत् । राष्ट्रपतेः (vi)________ अभिवादनम् अकरोत् । अत्र विविधराज्यानां (vii) _______ आगत्य प्रत्यकवर्गस्य नेता भव्यानि परिदृश्यानि आसन्। देहलीराज्यस्य उद्योगविभागेन निर्मितेन (viii) _______ प्रथमं स्थानं लब्धम् । दर्शकानां (ix)_______ सर्वेभ्यः मम प्रणामाः निवेदनीयाः । निखिलं वातावरणं गुञ्जायमानम् आसीत् ।
भवदीया सखी
(x)_______
मञ्जूषा
भव्या, विनीता, अस्मिन् वन्दना आह्लादिता, सुसज्जितानि, शोभायात्रायां, समक्षम्, परिदृश्येन, करतलध्वनिना
03. प्रदत्तं चित्रं दृष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत। 1x5= 5
मञ्जूषा
गाव:, गौशाला, तृणम्, खादन्ति, गोपालक, दुग्धं, दोग्धि, वत्सः, मातरं, वेदेषु, उक्तिः, गावा विश्वस्य मातरः, प्रोक्तम्, हरितं, शुष्कं, धान्यम्, गोमयं, गोमूत्रम्, चिकित्साप्रयोगे, उपयोग
अथवा
मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखित विषयम् अधिकृत्य न्यूनातिन्यूनं पञ्चभिः संस्कृतवाक्यैः एकम् अनुच्छेद लिखत
त्रिवर्ण: ध्वजः
मञ्जूषा
केसरी, श्वेतः, हरितः, वर्णाः, सम्मेल्य, क्रान्तेः शान्ते: समृद्धेः प्रतीक क्रान्तिकारिणः सैनिकाः, स्वप्राणाहुतिं समर्पितवन्तः जनाः सम्मानदृष्ट्या, त्रयः भवन्ति, स्वतन्त्रतायाः आन्दोलने।
04. अधोलिखितानि वाक्यानि संस्कृतभाषया अनूद्य लिखत। (केवलं पञ्चवाक्यम् ) 15-5
(i) देव पानी भरता है।
Dev fills water.
(ii) वृक्ष से फूल गिरते हैं।
Flowers fall down from the tree.
(iii) सीमा भोजन पकाती है।
Seema cooks food.
(iv) हमारे देश के विदेशमन्त्री एस. जयशंकर हैं।
Our country's extermal affairs minister is S. Jaishankar,
(v) किसान खेत को पानी सींचता है।
The farmer irrigates the field with water.
(vi) संस्कृत भाषा विज्ञान का स्रोत है।
Sanskrit Language is the source of science.
पठितावबोधनम् (15 अङ्काः )
05. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत 3
प्राचीनकाले लोकमङलाशंसिनः ऋषयो वने निवसन्ति स्म । यतो हि वने सुरक्षित पर्यावरणमुपलभ्यते स्म । तत्र विविधाः विहगा: कलकूजिश्रोत्ररसायनं ददति। सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति । वृक्षाः लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च बाहुल्येन समुपहरन्ति । शीतलमन्दसुगन्धवनपवना: औषधकल्प प्राणवायुं वितरन्ति
(अ) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
½x2 = 1
(i) ऋषयः कुत्र निवसन्ति स्म?
(ii) वने कीदृशं पर्यावरणमुपलभ्यते स्म?
(iii) के कलकूजिश्रोत्ररसायनं ददति ?
(आ) पूर्णवाक्येन उत्तरत (केवलं प्रश्रद्वयम् )
1x2 = 2
(i) सरितो गिरिनिर्झराश्च कीदृशं जलं प्रयच्छन्ति ?
(ii) वनं बाहुल्येन किं समुपहरन्ति ?
(ii) शीतलमन्दसुगन्धवनपवनाः किं वितरन्ति?
06. अधोलिखितं पद्यं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। 3
निवर्तय मतिं नीचां परदाराभिमर्शनात् ।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् ॥
(अ) एकपदेन उत्तरत (केवलं प्रश्नद्वयम् )
1/2x2=1
(i) रावण: कस्मात् मति निवर्तयेत् ?
(ii) कः परदाराभिमर्शनात् मति निवर्तयेत् ?
(iii) कः अस्य विगर्हयेत् ?
(ए) पूर्णवाक्यायन उत्तर (विं प्रश्नद्वयम्)
1x2 = 2
(i) धीरः किं न समाचरेत् ?
(ii) कीदृशीं मतिं निवर्तयेत् ?
(iii) धीर: कस्मात् मतिं निवर्तयेत् यत्परः अस्य न विगर्हयेत् ?
07. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानां उत्तराणि संस्कृतेन लिखत - 3
पुरुषः - भोस्तपस्विन् कथं माम अवरोधं करोषि ? प्रयत्नेन किं न सिद्धं भवति? कावश्यकता शिलानाम् ? सिकताभिरेव सेतुं करिष्यामि स्वसंकल्पदृढतया ॥
तपोदत्तः - आश्चर्यम् किं सिकताभिरेव सेतुं करिष्यसि ? सिकता जलप्रवाहे स्थास्यन्ति किम्? भवता चिन्तितं न वा?
पुरुष: - (सोत्प्रासम्) चिन्तितं चिन्तितम् । सम्यक् चिन्तितम् । नाहं सोपानसहायतया अधिरोढुं विश्वसिमि। समुत्प्लुत्यैव गन्तुं क्षमोऽस्मि ।
तपोदत्तः - (सव्यडयम्)
साधु साधु! आञ्जनेयमप्यतिक्रामसि!
पुरुषः - (सविमर्शम्) कोऽत्र सन्देह: ? किञ्च,
विना लिप्यक्षरज्ञानं तपोभिरेव केवलम् ।
यदि विद्या वशे स्युस्ते, सेतुरेष तथा मम ।
(अ) एकपदेन उत्तरत (केवलं प्रश्नद्वयम्)
1/2x2 = 1
(i) केन किं न सिद्धं भवति?
(ii) सिकताभिरेव किं करिष्यामि ?
(iii) सेतुनिर्माण केषाम् आवश्यकता नाम्नि ?
(आ) पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयम्)
1x2 = 2
(i) पुरुष: सोत्प्रासम् किम् अवदत् ?
(ii) तपोदत्तः सव्यङ्यं किम् कथयति ?
(iii) विना लिप्यक्षरज्ञानं का वशे न स्युः ?
08. मञ्जूषातः समुचितानि पदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयत-
1/2x4 = 2
तस्य तीक्ष्णनखाभ्यां त चरणाभ्यां महाबलः ।
तु चकार बहुधा गात्रे व्रणान्यतगसत्तमः ॥
अन्वयः (इत्युक्त्वा) महाबल: (i) _________ तु तीक्ष्णनखाभ्यां (ii) _________ तस्य (iii) _________बहुधा व्रणान् (iv)_________
मञ्जूषा
पतगसत्तमः, चरणाभ्यां, गात्रे, चकार
अथवा
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत
जटायो पश्य मामार्य ह्रियमाणमनाथवत्।
अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ।
भावार्थ:
अस्य भावोऽस्ति यत् सा सुदुःखिता सीता उक्तवती यत् हे आर्य (i)_________अनेन (ii) राक्षसेन्द्रेण (iii) _________ ह्रियमाणां मां अनेन (iv) _________ पश्य ।
मञ्जूषा
अनाथवत्, पापकर्मणा, जटायो, करुणं
09. अधोलिखित-कथांशं यथाक्रमं लिखतु ।
1/2x8 = 4
(i) अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि ।
(ii) भ्रान्तः कश्चन बाल: पाठशालागमनवेलायां क्रीडितुम् अगच्छत् ।
(iii) तदा सः बाल: अलं भाषणेन अनेन मिथ्यागर्वितेन कीटेन इति विचिन्त्य अन्यत्र गतः।
(iv) तन्द्रालु: बाल: लज्जया तेषां दृष्टिपथमपि परिहरन् एकाकी किमपि उद्यानं प्राविशत् ।
(v) तथापि, स: मधुकरः अस्य बालस्य आह्वानं तिरस्कृतवान् ।
(vi) अथ सः पुष्पोद्यानं व्रजन्तं मधुकरं दृष्ट्वा तं क्रीडितुं द्वित्रिवारं आह्वयत् ।
(vii) स: एते वराकाः पुस्तकदासाः।
(viii) एते निष्कुटवासिनः प्राणिनः एव मम वयस्याः सन्तु ।
Comments
Post a Comment